Wednesday, 18 July 2012

TOBACCO - YES / NO ?

“ तमाखुः क्षारकूटं च तंबाखुर्धूमपत्रिका ।
टोबँको नामभिस्तत्तु भुवि सर्वत्र लभ्यते ॥
अमेरिका मूलजं हयेतत् विविधास्तस्थ जातयः ।
धूम्रपाने चर्वणे च भक्षणेSपि प्रयुज्यते ॥
तांबूलसेवने चैव चूर्णकेन (चुना) (सुधया) अपि भक्ष्यते ।
तमाखुसेवनासक्ताः (प्रायो) रोगाक्रान्ता भवन्ति हि ॥
क्षणैक सुखदं हयेतत् दीर्घकालेन कुप्यति ॥
कषायं तिक्त कटु च वीर्येणोष्णं तथा लघु ।
किंचिन्मदकरं चैव क्षणं शान्तिं प्रयच्छति ॥
टंकणं चूर्णकं चैव तद् विशुध्दौ प्रयोजयेत् ।
विशुध्दं सेवने शस्तं मात्रया विधिपूर्वकम् ॥
कफं कासं तथा श्वासं दन्तशूलं कृमीस्तथा ।
विनाशयति तन्नित्यं नोचेद्रोगकरं ध्रुवम् ॥
आध्मान विष्टंभकरं विभ्रमं पित्तकारकम् ।
राजयक्ष्मा गंडमाला कँन्सरादीन् करोति तत् ॥
यथा महानसातधमो बहिर्गच्छति निश्चितम् ।.......


http://ayurvedaconsultants.com/caseshow.aspx?ivalue=3660

No comments:

Post a Comment